अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचंद्रो देवता । अनुष्टुप् छंदः। सीता शक्तिः। श्रीमान हनुमान् कीलकम् । श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।
अथ ध्यानम्:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामांकारूढसीतामुखकमलमिलल्लोचनं
नीरदाभं नानालंकार दीप्तं दधतमुरुजटामंडलं रामचंद्रम ।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
।
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्
॥2॥
recommended by
सासितूणधनुर्बाणपाणिं नक्तंचरांतकम्
।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्
॥3॥
Hindi
सम्राट विक्रमादित्य के सम्मान में
स्थापित होगा देश का सबसे प्रतिष्ठित अंतरराष्ट्रीय अलंकरण सम्मान : मोहन यादव
Read More
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्
।
शिरो मे राघवः पातु भालं दशरथात्मजः
॥4॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः
श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः
॥5॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवंदितः
।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः
॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः
॥7॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
।
उरू रघूत्तमः पातु रक्षःकुलविनाशकृत्
॥8॥
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः
।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः
॥9॥
एतां रामबलोपेतां रक्षां यः सुकृती
पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी
भवेत् ॥10॥
पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न दृष्टुमति शक्तास्ते रक्षितं रामनामभिः
॥11॥
रामेति रामभद्रेति रामचन्द्रेति वा
स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं
च विन्दति ॥12॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम्
।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः
॥13॥
वज्रपंजरनामेदं यो रामकवचं स्मरेत्
।
अव्याहताज्ञः सर्वत्र लभते जयमंगलम्
॥14॥
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां
हरः ।
तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः
॥15॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
।
अभिरामस्रिलोकानां रामः श्रीमान्स नः
प्रभुः ॥16॥
तरुणौ रूप सम्पन्नौ सुकुमारौ महाबलौ
।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ
॥18॥
शरण्यौ सर्र्र्वसत्त्वानां श्रेष्ठौ
सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ
॥19॥
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ
।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव
गच्छताम् ॥20॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा
।
गच्छन्मनोरथान्नश्च रामः पातु सलक्ष्मणः
॥21॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली
।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो
रघूत्तमः ॥22॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः
॥23॥
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयाऽन्वितः
।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति
न संशयः ॥24॥
रामं दूवार्दलश्यामं पद्माक्षं पीतवाससम्
।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो
नराः ॥25॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं
सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं
धार्मिकम् ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं
शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं
रावणारिम् ॥26॥
रामाय रामभद्राय रामचन्द्राय वेधसे
।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनन्दनराम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥28॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचंसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥29॥
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयलुर्नान्यं
जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा
।
पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम्
॥31॥
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम
।
कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं
शरणं प्रपद्ये ॥32॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं
बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं
शरणं प्रपद्ये ॥33॥
कूजन्तं राम रामेति मधुरं मधुराक्षरम्
।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्
॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम्
।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्
॥35॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम्
।
तर्जनं यमदूतानां राम रामेति गर्जनम्
॥36॥
रामो राजमणिः सदा विजयते रामं रामेशं
भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै
नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर
॥37॥
राम रामेति रामेति रमे रामे मनोरमे
।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥38॥a
॥ श्री बुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं
सम्पूर्ण ॥
